श्रीकालीक्षमाऽपराधस्तोत्रं // stotram



                      ||  श्रीकालीक्षमाऽपराधस्तोत्रम् ||❤️🙏



प्राग्देहस्थोय दाहं तव चरण युगान्नाश्रितो नार्चितोऽहं

     तेनाद्या कीर्तिवर्गेर्जठरजदहनैर्बाद्ध्यमानो बलिष्ठैः ।

क्षिप्त्वा जन्मान्तरान्नः पुनरिहभविता क्वाश्रयः क्वापि सेवा

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १॥


वाल्येवालाभिलायैर्जडित जडमतिर्बाललीला प्रसक्तो

     न त्वाञ्जानामि मातः कलिकलुषहरा भोगमोक्ष प्रदात्रीम् ।

नाचारो नैव पूजा न च यजन कथा न स्मृतिनैव सेवा

     क्षन्तव्योमेऽपराधः प्रकटित वदने कामरूपे कराले ॥ २॥


प्राप्तोहं यौवनञ्चेद्विषधर सदृशैरिन्द्रियैर्दृष्ट गात्रो

     नष्ट प्रज्ञः परस्त्री परधन हरणे सर्वदा साभिलाषः ।

त्वत्पादाम्भोज युग्मङ्क्षणमपि मनसा न स्मृतोहं कदापि

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ३॥


प्रौढोभिक्षाभिलाषी सुत दुहितृ कलत्रार्थ मन्नादि चेष्ट

     क्व प्राप्स्ये कुत्रयामी त्वनुदिनमनिशं चिन्तयामग्न देहः ।

नोतेध्यानन्त चास्था न च भजन विधिन्नाम सङ्कीर्तनं वा

     क्षन्तव्योमेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ४॥


वृद्धत्वे बुद्धिहीनः कृश विवशतनुश्श्वासकासातिसारैः

     कर्णनिहोऽक्षिहीनः प्रगलित दशनः क्षुत्पिपासाभिभूतः ।

पश्चात्तापेनदग्धो मरणमनुदिनं ध्येय मात्रन्नचान्यत्

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ५॥


कृत्वास्नानं दिनादौ क्वचिदपि सलिलं नोकृतं नैव पुष्प

     ते नैवेद्यादिकञ्च क्वचिदपि न कृतं नापिभावो न भक्तिः ।

न न्यासो नैव पूजां न च गुण कथनं नापि चार्चाकृताते

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ६॥


जानामि त्वां न चाहं भवभयहरणीं सर्व सिद्धिप्रदात्री

     नित्यानन्दोदयाढ्यां त्रितय गुणमयी नित्य शुद्धोदयाढ्याम् ।

मिथ्याकर्माभिलाषैः अनुदिनमभितः पीडितो दुःख सङ्घैः

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ७॥


कालाभ्रां श्यामालाङ्गीं विगलित चिकुरा खग़्गमुण्डाभिरामां

     त्रास त्राणेष्टदात्रीं कुणपगणशिरो मालिनीं दीर्घनेत्राम् ।

संसारस्यैकसारां भवजन न हराम्भावितोभावनाभिः

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ८॥


ब्रह्मा विष्णुस्तथेशः परिणमति सदा त्वत्पदाम्भोज युक्तं

     भाग्याभावान्न चाहम्भव जननि भवत्पाद युग्मं भजामि ।

नित्यं लोभ प्रलोभैः कृतविशमतिः कामुकस्त्वां प्रयाषे

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ९॥


रागद्वेषैः प्रमत्तः कलुषयुत तनुः कामनाभोग लुब्धः

     कार्याकार्या विचारी कुलमति रहितः कोलसङ्घैर्विहीनः ।

क्वध्यानन्ते क्वचार्चा क्वमनुजपनन्नैव किञ्चित् कृतोऽहं

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १०॥


रोगी दुःखी दरिद्रः परवशकृपणः पांशुलः पाप चेता

     निद्रालस्य प्रसक्तास्सुजठरभरणे व्याकुलः कल्पितात्मा ।

किं ते पूजा विधानं त्वयिक्वचनुमतिः क्वानुराक्वचास्था

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ११॥


मिथ्या व्यामोह रागैः परिवृतमनसः क्लेशसङ्घान्वितस्य

     क्षुन्निद्रौघान्वितस्य स्मरण विरहिणः पापकर्म प्रवृत्ते ।

दारिद्र्यस्य क्वधर्मः क्वचजननिरुचिः क्वस्थितिस्साधु सङ्घैः

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १२॥


मातस्तातस्यदेहजननि जठरगः संस्थितस्त्वद्वशेहन्

     त्वं हर्त्रा कारयित्री करण गुणमयी कर्महेतु स्वरूपा ।

त्वं बुद्धिश्चित्त संस्थाप्ययहमतिभवती सर्वमेतत्क्षमस्व

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १३॥


त्वं भूमिस्त्वञ्जलञ्च त्वमसि हुतवहस्त्वञ्जगद्वायुरूपा

     त्वञ्चाकाशम्मनश्च प्रकृतिरसि महत्पूर्विका पूर्वपूर्वा ।

आत्मात्वञ्चासिमातः परमसिभवती त्वत्परन्नैव किञ्चित्

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १४॥


त्वं काली त्वञ्चतारात्वमसि गिरिसुता सुन्दरी भैरवी त्वं

     त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं हि लक्ष्मीः शिवा त्वम् ।

धूमा मातङ्गिनीत्वं त्वमसि च बगला मङ्गलादिस्तवाख्या

     क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १५॥


स्तोत्रेणानेन देवीम्परिणमति जनो यः सदाभक्तियुक्तो

     दुष्कृत्या दुर्गसङ्घं परितरति शतं विघ्नतां नाशमेति ।

नाधिर्व्याधि कदाचिद्भवति यदि पुनस्सर्वदा सापराधः

     सर्वं तत् कामरूपे त्रिभुवन जननि क्षामये पुत्र बुद्ध्या ॥ १६॥


ज्ञाता वक्ता कवीशो भवति धनपतिर्दानशीलो दयात्मा

     निःष्पापी निःष्कलङ्की कुलपति कुशलस्सत्यवाग्धार्मिकश्च ।

नित्यानन्दो दयाढ्यः पशुगणविमुखस्सत्पथा चारुशीलः

     संसाराब्धिं सुकेन प्रतरति गिरिजा पादयुग्मावलम्बात् ॥ १७॥


॥ इति श्रीकालीक्षमाऽपराधस्तोत्रं समाप्तम् ॥


                      ||  श्रीकालीक्षमाऽपराधस्तोत्रम् ||❤️🙏



Comments

Popular posts from this blog

bhavena kaltak gujratnewsbvn ૧૩/૦૯/૨૫

નિજાનંદ પરિવાર ભાવનગર gujratnewsbvn