Mangal stotra मंगल ग्रह स्तोत्र ।by sbofficial
मंगल स्तोत्र । mangal grah stotra । spiritual shastri
॥ ऋणमोचन मंगल स्तोत्र ॥
मंगलो भूमिपुत्रश्च
ऋणहर्ता धनप्रद:।
स्थिरासनो महाकाय:
सर्वकामविरोधक:॥1॥
लोहितो लोहिताक्षश्च
सामगानां कृपाकर:।
धरात्मज: कुजो भौमो
भूतिदो भूमिनन्दन:॥2॥
अङ्गारको यमश्चैव
सर्वरोगापहारक:।
वृष्टे: कर्ताऽपहर्ता च
सर्वकामफलप्रद:॥3॥
एतानि कुजनामानि
नित्यं य: श्रद्धया पठेत्।
ऋणं न जायते तस्य
धनं शीघ्रमवाप्नुयात्॥4॥
धरणीगर्भसम्भूतं
विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं च
मङ्गलं प्रणमाम्यहम्॥5॥
स्तोत्रमङ्गारकस्यैतत्
पठनीयं सदा नृभि:।
न तेषां भौमजा पीडा
स्वल्पापि भवति क्वचित्॥6॥
अङ्गारक महाभाग
भगवन् भक्तवत्सल।
त्वां नमामि ममाशेष
मृणमाशु विनाशय:॥7॥
ऋणरोगादिदारिद्रयं
ये चान्ये चापमृत्यव:।
भयक्लेशमनस्तापा
नश्यन्तु मम सर्वदा॥8॥
अतिवक्रदुरारा
भोगमुक्तजितात्मन:।
तुष्टो ददासि साम्राज्यं
रुष्टो हरसि तत्क्षणात्॥9॥
विरञ्चि शक्रविष्णूनां
मनुष्याणां तु का कथा।
तेन त्वं सर्वसत्वेन
ग्रहराजो महाबल:॥10॥
पुत्रान्देहि धनं देहि
त्वामस्मि शरणं गत:।
ऋणदारिद्रयदु:खेन
शत्रुणां च भयात्तत:॥11॥
एभिर्द्वादशभि: श्लोकैर्य:
स्तौति च धरासुतम्।
महतीं श्रियमाप्नोति
ह्यपरो धनदो युवा॥12॥
॥ इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं
ऋणमोचन मंगल स्तोत्रम् सम्पूर्णम् ॥
मंगल स्तोत्र ।by shastriji bhavngar ।


Comments
Post a Comment