श्रीदेव्यथर्वशीर्षम्

श्रीदेव्यथर्वशीर्षम्


ऊँ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ॥१॥


साब्रवीत्- अहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यम् च ॥२॥


अहमानन्दानानन्दौ । अहं विज्ञानाविज्ञाने । अहं ब्रह्माब्रह्मणी वेदितव्ये । अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् ||३|| 

वेदोऽहमवेदोऽहम्। विद्याहमविद्याहम्। अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् ॥४॥

अहं रुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुत विश्वदेवैः ।


अहं मित्रावरुणावुभौ बिभर्मि । अहमिन्द्राग्नी अहमश्विनावुभौ॥५॥

अहं सोमं त्वष्टारं पूषणं भगं दधामि। अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥६॥

 अहं दधामि द्रविणं हविष्मते सुप्राव्ये उ यजमानाय सुन्वते ।


अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।


अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।


य एवम् वेद। स देवीं सम्पदमाप्नोति ॥७॥

ते देवा अब्रुवन्-


नमो देव्यै महादेव्यै शिवायै सततं नमः ।


नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥८॥


 


तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।


दुर्गां देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्यै ते नमः ॥९॥


 


देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति


सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु॥१०॥


 


कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।


सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥११॥


 


महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।


तन्नो देवी प्रचोदयात् ॥१२॥


 


अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव


तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥१३॥


 


कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।


पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम् ॥१४॥


 


एषात्मशक्तिः । एषा विश्वमोहिनी । पाशाङ्कुशधनुर्बाणधरा। एषा श्रीमहाविद्या ।


य एवं वेद स शोकं तरति ॥१५॥


 


नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वतः ॥१६॥


 


सैषाष्टौ वसवः। सैषैकादशरुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च ।


सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः ।


सैषा सत्त्वरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणी। सैषा प्रजापतीन्द्रमनवः ।


सैषा ग्रहनक्षत्रज्योतींषि । कला काष्ठादिकालरूपिणी। तामहं प्रणौमि नित्यम् ।


पापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।


अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम्॥१७||


 


वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् ।


अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥१८॥


 


एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः


ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥१९॥


 


वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम्


सुर्योऽवामश्रोत्रबिन्दुसंयुक्तष्टात्तृतीयकः ।


नारायणेन संमिश्रो वायुश्चाधरयुक् ततः


विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥२०॥


 


हृत्पुण्डरीकमध्यस्थां प्रातः सूर्यसमप्रभां


पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् ।


त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥२१॥


 


नमामि त्वां महादेवीं महाभयविनाशिनीम् ।


महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥२२॥


 


यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया ।


यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता । यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या ।


यस्या जननं नोपलभ्यते तस्मादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यते एका ।


एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ॥२३॥


 


मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।


ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ।


यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ॥२४॥


 


तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।


नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥२५॥


 


इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षजपफलमाप्नोति ।


इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयति शतलक्षं प्रजप्त्वाऽपि सोऽर्चासिद्धिं न विन्दति ।


शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ।


दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते ।


महादुर्गाणि तरति महादेव्याः प्रसादतः ॥२६॥


 


सायमधीयानो दिवसकृतं पापं नाशयति।प्रातरधीयानो रात्रिकृतं पापं नाशयति ।


सायं प्रातः प्रयुञ्जानो अपापो भवति।निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति ।


नूतनायां प्रतिमायां जप्त्वा देवतासान्निध्यं भवति ।


प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।


भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति ।


स महामृत्युं तरति य एवं वेद। इत्युपनिषत् ॥२७॥

Comments

Popular posts from this blog

bhavena kaltak gujratnewsbvn ૧૩/૦૯/૨૫

નિજાનંદ પરિવાર ભાવનગર gujratnewsbvn